अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 141 to 150 of 188 verses
(आत्मगतम्) लब्धावकाशो मे मनोरथः । किं तु सख्या परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।

(सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा)

पुनरपि वक्तुकाम इवार्यः ।

(शकुन्तलां सखीमङ्गुल्या तर्जयति)

सम्यगुपलक्षितं भवत्या ।अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् ।

अलं विचार्य ।अनियन्त्रणानुयोगस्तपस्विजनो नाम ।

इत्सखीं ते ज्ञातुमिच्छामि ।

वैखानसं किमनया व्रतमाप्रदानाद् व्यापाररोधि मदनस्य निषेवितव्यम् ।अत्यन्तमात्मसदृशेक्षणवल्लभाभिर् आहो निवत्स्यति सम हरिणाङ्गनाभि ॥
Metre: वसन्ततिलका

आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः ।

(आत्मगतम्)अन्दुरवापेयं खलु प्रार्थना ।

Showing 141 to 150 of 188 verses