अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 161 to 170 of 188 verses
वृक्षसेचने द्वे दारयसि मे ।एहि तावत् ।आत्मानं मोचयित्वा ततो गमिष्यसि (इति बलादेनां निवर्तयति)

भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथा ह्यस्याः

स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणादद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः । बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥
Metre: शार्दूलविक्रीडितम्

तदहमेनामनृणां करोमि (इति अङ्गुलीयं दातुमिच्छति)

(उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः)

अलमस्मानन्यथा संभाव्य । राज्ञः परिग्रहोऽयमिति राजपुरुषं मामवगच्छथ ।

तेन हि नार्हत्यङ्गुलीयकमङ्गुलीवियोगम् ।आर्यस्य वचनेनानृणेदानीमेषा । (किंचिद्विहस्य) हला शकुन्तले मोचितास्यनुकम्पिनार्येण ।अथवा महाराजेन । गच्छेदानीम् ।

(आत्मगतम्) यद्यात्मनः प्रभविष्यामि ।

(प्रकाशम्) का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा ।

(शकुन्तलां विलोक्य ।आत्मगतम्) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात् ।अथवा लब्धावकाशा मे प्रार्थना । कुतः ।