भव हृदय साभिलाषं संप्रति संदेह निर्णयो जातः ।आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥
Metre: आर्या
(सरोषमिव)अनसूये गमिष्याम्यहम् ।
इमामसंबद्धप्रलापीं प्रियंवदामार्यायै गौतम्यै निवेदयिष्यामि ।
सखि न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वछन्दतो गमनम् ।
(शकुन्तला न किंचिदुक्त्वा प्रस्थितैव)
(ग्रहीतुमिच्छन्निगृह्यात्मानम् ।आत्मगतम्)अहो चेष्टा प्रतिरूपिका कामिजनमनोवृत्तिः ।अहं हि
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः । स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥
Metre: आर्या
(शकुन्तलां निरुध्य) हला न ते युक्तं गन्तुम् ।
(सभ्रूभङ्गम्) किं निमित्तम् ।