अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 131 to 140 of 188 verses
तमावयोः प्रियसख्याः प्रभवमवगच्छ ।उज्झितायाः शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता ।

उज्झितशब्देन जनितं मे कौतूहलम् ।आमूलात्श्रोतुमिच्छामि ।

शृणोत्वार्यः । गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी ।

अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् ।

अनसूया ततो वसन्तोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य (इत्यर्धोक्ते लज्जया विरमति)

परस्ताज्ज्ञायत एव । सर्वथाप्सरःसंभवैषा ।

अथ किम् ।

उपपद्ये ।

मानुषीषु कथं वा स्यादस्य रूपस्य संभवः । न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥
Metre: अनुष्टुप्

(शकुन्तलाधोमुखी तिष्ठति)

Showing 131 to 140 of 188 verses