नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः ।
हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् ।अत्रोपविशामः (इति सर्वा उपविशन्ति)
(आत्मगतम्) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता ।
(सर्वा विलोक्य)अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् ।
(जनान्तिकम्)अनसूये को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं प्रियमालपन्प्रभाववानिव लक्ष्यते ।
सखि मम अप्यस्ति कौतूहलम् । पृच्छामि तावदेनम्
आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण राजर्षिवंशोऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः किं निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः ।
(आत्मगतम्) हृदय मोत्ताम्य ।एषा त्वया चिन्तितान्यनसूया मन्त्रयते ।
(आत्मगतम्) कथमिदानीमात्मानं निवेदयामि कथं वात्मापहारं करोमि । भवतु ।एवं तावदेनां वक्ष्ये । (प्रकाशम्) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः ।