अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 91 to 100 of 188 verses
एष नूनं तवात्मगतो मनोरथः । (इति कलशमावर्जयति)

अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् ।अथवा कृतं संदेहेन

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः ॥
Metre: वंशस्थम्

तथापि तत्त्वत एनामुपलभ्ये ।

(ससंभ्रमम्)अम्भो । सलिलसेकसंभ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्तते (इति भ्रमरबाधां रूपयति)

(सस्पृहम्)

चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीम् रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम् वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥
Metre: शिखरिणी

न एष ध्र्ष्टो विरमति ।अन्यतो गमिष्यामि । कथमितोऽप्यागच्छति । हला परित्रायेथां मामनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् ।

(सस्मितम्) के आवां परित्रातुम् । दुष्यंतमाक्रन्द । राजरक्षितव्यानि तपोवनानि नाम ।

राजा अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम् (इत्यर्धोक्ते स्वगतम्) राजभावस्त्वभिज्ञातो भवेत् । भवत्वेवं तावदभिधास्ये ।

Showing 91 to 100 of 188 verses