हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरेति तर्कयामि । येन नवमालिकाकुसुमपेलवा अपि त्वमेतेषामालवालपूरणे नियुक्ता ।
न केवलं तातनियोग एव ।अस्ति मे सोदरस्नेहोऽप्येतेषु । (इति वृक्षसेचनं रूपयति)
कथमियं सा कण्वदुहिता ।असाधुदर्शी खलु तत्रभवान्काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते ।
इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुम् ऋषिर्व्यवस्यति ॥
Metre: वंशस्थम्
भवतु । पादपान्तर्हित एव तावदेनां पश्यामि । (इति तथा करोति)
सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियं वदया नियन्त्रितास्मि । शिथिलय तावदेतत् ।
(सहासम्)अत्र पयोधरविस्तारयितृ आत्मनो यौवनमुपालभस्व । मां किमुपालभसे ।
काममननुरूपमस्य वपुषो वल्कलं न पुनरलंकारश्रियं न पुष्यति । कुतः
सरसिजमनुविद्धं शैवलेनापि रम्यम् मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥
Metre: मालिनी