अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 171 to 180 of 188 verses
वाचं न मिश्रयति यद्यपि मद्वचोभिः कर्णं ददात्यभिमुखं मयि भाषमाणे । कामं न तिष्ठति मदाननसंमुखीनाम् भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥
Metre: वसन्ततिलका

(नेपथ्ये)

भो भोस्तपस्विनः संनिहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृग या विहारी पार्थिवो दुष्यन्तः ।

तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु । पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥
Metre: पुष्पिताग्रा

अपि च ।

तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः पादाकृष्टव्रततिवलयासङ्गसंजातपाशः । मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥
Metre: मन्दाक्रान्ता

(सर्वाः कर्णं दत्त्वा किंचिदिव संभ्रान्ताः)

(आत्मगतम्)अहो धिक्पौरा अस्मदन्वेषिणस्तपोवनमुपरुन्धन्ति । भवतु । प्रतिगमिष्यामस्तावत् ।

आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः ।अनुजानीहि न उटजगमनाय ।

(ससंभ्रमम्) गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे ।

Showing 171 to 180 of 188 verses