(राजानमवलोक्य) दृष्टदोषा अपि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः
अनवरतधनुर्ज्यास्फालनक्रूरपूर्व रविकिरणसहिष्णु स्वेदलेशैरभिनम् ।अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति ॥
Metre: मालिनी
(उपेत्य) जयतु जयतु स्वामी । गृहीतश्वापदमरण्यम् । किमन्यत्रावस्थीयते ।
मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन ।
(जनान्तिकम्) सखे स्थिरप्रतिबन्धो भव ।अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये । (प्रकाशम्) प्रलपत्वेष वैधेयः । ननु प्रभुरेव निदर्शनम् ।
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्या एव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥
Metre: शार्दूलविक्रीडितम्
अपेहि रे उत्साहहेतुक ।अत्रभवान्प्रकृतिमापन्नः । त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णऋक्षस्य कस्य अपि मुखे पतिष्यसि ।
भद्र सेनापते आश्रमसंनिकृष्टे स्थिताः स्मः ।अतस्ते वचो नाभिनन्दामि ।अद्य तावत् ।
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितम् छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धं क्रियतां वहारततिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथितलज्याबन्धमस्मद्धनुः ॥
Metre: शार्दूलविक्रीडितम्