अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 31 to 40 of 134 verses
हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किं तु यादृशीतिहासबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि ।

कथय किं निमित्तं संतापः । विकारं खलु परमार्थतोऽज्ञात्वानारम्भप्रतीकारस्य ।

अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वामिप्रायेण मे दर्शनम् ।

(आत्मगतम्) बलवान्खलु मेऽभिनिवेशः ।इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् ।

सखि शकुन्तले सुष्ठु एषा भणति । किमात्मन आतङ्कमुपेक्षसे ।अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति ।

अवितथमाह प्रियंवदा । तथा हि

क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनम् मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥
Metre: शार्दूलविक्रीडितम्

सखि कस्य वान्यस्य कथयिष्यामि । किंत्वायासयित्रीदानीं वां भविष्यामि ।

अत एव खलु निर्बन्ध । स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ।

राजा