हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किं तु यादृशीतिहासबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि ।
कथय किं निमित्तं संतापः । विकारं खलु परमार्थतोऽज्ञात्वानारम्भप्रतीकारस्य ।
अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वामिप्रायेण मे दर्शनम् ।
(आत्मगतम्) बलवान्खलु मेऽभिनिवेशः ।इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् ।
सखि शकुन्तले सुष्ठु एषा भणति । किमात्मन आतङ्कमुपेक्षसे ।अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति ।
अवितथमाह प्रियंवदा । तथा हि
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनम् मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥
Metre: शार्दूलविक्रीडितम्
सखि कस्य वान्यस्य कथयिष्यामि । किंत्वायासयित्रीदानीं वां भविष्यामि ।
अत एव खलु निर्बन्ध । स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ।