(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
(उपवीज्य । सस्नेहम्) हला शकुन्तरे अपि सुखयति नलिनीपत्रवातः ।
(सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः)
बलवदस्वस्थशरीरा शकुन्तला दृश्यते ।
(सवितर्कम्) तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते । (साभिलाषं निर्वर्ण्य)अथ वा कृतं संदेहेन ।
स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयम् प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् । समस्तापः कामं मनसिजनिदाघप्रसरयोर् न तु ग्रीष्मस्यैवं सुभगमपराधं युवतिषु ॥
Metre: शिखरिणी
(जनान्तिकम्)अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्य पर्युत्सुकेव शकुन्तला । किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को भवेत् ।
सखि मम अपीदृश्याशङ्का हृदयस्य । भवतु । प्रवक्ष्यामि तावदेनाम् (प्रकाशम्) । सखि प्रष्टव्यासि किमपि । बलवान्खलु ते संतापः ।
(पूर्वार्धेन शयनादुत्थाय) हला किं वक्तुकामासि ।