अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुभे मृगाक्ष्या।
कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि॥ ५५॥
१. 'प्रकाशः = प्रणाश' इति रा.
(२८) प्रियानुगमनचिह्नानि प्रेमालिङ्गनानि, यथा—(गास. १.८७)
अवलंबिअ—माण—परंमुहीए एंत्तस्स माणिणि पिअस्स।
पुट्ठिपुउलउग्गमो से/तुह कहेइ संमुहठ्ठिअं हिअअं॥ ५६॥
(अवलम्बितमानपराङ्मुख्या प्राप्तस्य मानिनी प्रियस्य।
वर्धितपुलकोद्गमा हे कथयति सम्मुखस्थितं हृदयम्॥)
विविधविलसद्भावाकूता तनुस्मरघूर्णिता निबिडपुलका गाढाश्लेषं बलादभिवाञ्छति।