(विदलन्ति हृदयं चिरकालप्ररूढगुरुकविस्रम्भाः।
॰ ॰ ॰ ॰ स्वभावदारुणाः प्रेमपरिणामाः॥)
यथोत्तरस्वादु खर्जूरपाकं यथा—(उराच. १.३९)
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् विस्रम्भो हृदयस्य यन्न रजसा यस्मिन्नहार्यो रसः।
कालेनावरणात्ययात् परिणते यत् स्नेहसारोत्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत् प्राप्यते॥ ६३॥
तदेतत् कामसर्वस्वं तदेतत् काव्यजीवितम्।
य एष द्विप्रकारोऽपि रसः श्रृङ्गारसंज्ञकः॥ ६४॥
(यथा विपद्मा सरसी यथा रात्रिर)१-तारका ।
अविदग्धा यथा गोष्ठी निश्श्रृङ्गारा तथाङ्गना॥ ६५॥
यथांशुमाली पी/वीतांशुर्यथानर्चिर्हुताशनः।