सोढस्तव वियोगो मा लज्जस्व सुभग! लज्जितव्यं हि मया॥)
(२५) वचनस्य प्रतिवचनानि प्रत्युत्तराणि, यथा—
कान्ते! नाथ! विमुञ्च मानिनि! रुषं रोषान्मया किं कृतं, खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि।
तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते॥ ५०॥
किं गौरि मां प्रति रुषा, ननु गौरहं किं, कुप्यामि कां प्रति ममेत्यनुमानतोऽहम्।
जानाम्यतस्त्वमनुमानत एव सत्य इत्थं गिरो गिरिभुवः कुटिला जयन्ति॥ ५१॥
(२६) मानशल्योद्धरणमवज्ञाभ्रंशः, यथा—
हरिस—विअसंत—वअणं कवोल—अल—संगलंत—पुलउब्भेअं।
अप्पसाहिअं पि जाअं पसाहिअब्भहिअ—मणहरं तीए मुहं॥ ५२॥