(हर्षविकसद्वदनं कपोलतलसङ्कलत्पुलकोद्भेदम्।
अप्रसाधितमपि जातं प्रसाधिताभ्यधिकमनोहरं तस्या मुखम्॥)
णिम्मविअसंधिअम्मा ताव अ दूरपदिबद्ध—वम्महप्पसरा।
गरुअं सुरउच्छाअं दाऊण सहि व्व ज्जामिणीं तीएँ गआ॥ ५३॥
(निर्मापितसन्धिकर्मा तावच्च दूरप्रतिबद्धमन्मथप्रसरा।
गुरुकं सुरतोत्साहं दत्वा सखीव यामिनी तस्या गता॥) (हरिवि.)
(२७) गाढानुरागप्रकाशः१ प्रेमाविर्भावः, यथा—
सोत्कण्ठं सरसागति प्रियतमे पादानतिं वाञ्छति स्मृत्वा मन्युविनिर्गताश्रुचरणे क्लिष्टे तदभ्युद्गमात्।
तं चाधूनति मर्मणा विदधते दृष्ट्वा पुनः कान्तया प्रेमच्छेदभिया कृतः प्रणतये पादार्पणानुग्रहः॥ ५४॥