भवन्ति गवाक्षोपगताः कालागरुदग्धधूसराः शशिकिरणाः॥)
गोरंगउ तरुणीअणो जोण्हाइं अहिसरइ सिअ-णेवच्छ-पडिच्छेओ वल्लह-बद्ध-रइ।
तच्छाअहिं पुणु चलिअउ सामलगत्तिअहिं णीलउ वेसु वहंतिहिं मअणुम्मतिअहिं॥ ५६॥
(गौराङ्गस्तरुणीजनो ज्योत्स्नायामभिसरति सितनेपथ्यपरिच्छदो वल्लभबद्धरतिः।
तच्छायासु पुनश्चलितं श्यामलगात्राभिः नीलं वेशं वहन्तीभिर्मदनोन्मत्ताभिः॥) (सक. ३.१३१)
(२१) निशाप्रथमयामकर्म प्रादोषिकं यथा—
सज्जिज्जइ उवआरो अहो रइअंपि पुणो रइज्जइ सअणं।
संभरिअ वाणि-अत्था अप्पाहिअ-पत्थिआ वि रुब्भइ दूई॥ ५७॥
(सज्जीक्रियते उपचारः अहो रचितमपि पुना रच्यते शयनम्।
संस्मृत्य वाण्यर्थान्, सन्दिष्टप्रस्थितापि रुध्यते दूती॥)