(अत्र तत्र यान्तीभिस्तोरणवतीभि— र्दौत्यं प्रेषयन्तीभिः पन्थानमीक्षमाणाभिः।
वेषविशेषं गृह्न्मुञ्चन्तीभिर्बालाभिः परिजनः कृतो व्याकुलः स्फुटमुत्तालाभिः॥)
(२२) अर्धरात्रं निशीथः यथा—
क्व प्रस्थितासि करभोरु! घने निशीथे प्राणेश्वरो वसति यत्र जनः प्रियो मे।
एकाकिनी वद कथं न बिभेषि बाले! नन्वस्ति पुङ्खितशरो मदनः सहायः॥ ६१॥
सखि! स विजितो वीणाद्युते कयापि परस्त्रिया पणितमभवत् ताभ्यां तस्मिन्निशाललितं ध्रुवम्।
कथमितरथा शोफालीषु स्खलत्कुसुमास्वपि स्थितवति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यते॥ ६२॥
(२३) अपररात्रं रात्रिपरावृत्तिर्यथा—(किराता. ९.७४, ७६)