(तावच्च रजनीवध्वां परिवर्तमानायां मृदितताराकुसुमः।
जातः परिमलपिशुनः पश्य नृत्यन्निव प्रकटः प्रत्यूषः॥)
भूमि—णिमिएक्कचलणं पिअअमहुत्त—परिअत्तिआणण—कमलं।
सोहइ पेम्मणिअलिअं णअणद्धंत दरपेच्छिअं॥ ६८॥
(भूमिनिभृताङ्कचरणं प्रियाऽप्राप्तपरिवर्तिताननकमलम्।
शोभते प्रेम निगलितं शयनार्धान्तदरप्रेक्षितं युवतीनाम्॥)
गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्रबिम्बाधरोष्ठयाः।
विरहविधुरमिष्टा सत्सखीवाङ्गनाया हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः॥ ६९॥
एताश्चूर्णितचूर्णकुन्तलभृतः क्षुण्णस्त्रगामोदिनी— र्बिभ्राणाः कबरीः कुरङ्गकदृशो विस्त्रंसिबन्धाकुलाः।