केलिप्रौढिविलुप्तवर्णकतया बिम्बैकशेषैः पुरो पत्रालीतिलकैर्दिशन्ति विजयं सौभाग्यवैदग्ध्ययोः॥ ७०॥
(२५) क्रीडार्थं काननविहारागमनं यथा— (माघ. ७.१,३,४,१५,४४,४५,५०,४६)
अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम्।
निरगमदभिरोद्धुमादृतानां भवति महत्सु न निष्फलः प्रयासः॥ ७१॥
अवसरमधिगम्य तं हरन्त्यो हृदयमयत्नकृतोज्ज्वलस्वरूपाः।
अवनिषु पदमङ्गनास्तदानीं व्यदधत विभ्रमसम्पदोऽङ्गनासु॥ ७२॥
नखरुचिरचितेषु चापलीनं ललितगतेषु गतागतं दधाना।
मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः॥ ७३॥
अविरलपुलस्सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः।
घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार॥ ७४॥