भवति रमितव्ययोग्यो दयितबलात्कारचुम्बितो युवतिजनः॥)
अग्घइ वलंतधीरं दइअहठालिंगआण णअणचुंबिअं।
विसमपरिअट्टिअमुहं समुहवलंतहिअअं विलासवईणं॥ ६५॥
(अ/र्घति वलमानधैर्यं दयितहठालिङ्गितानां नयनचुम्बितम्।
विषमपरिवर्धितमुखं संमुखवलद्धृदयं विलासवतीनाम्॥)
(३३) हस्तेनाभिघातः पाणिताडनम्, यथा—(लीलावती)
मुधे वपवेविरंगुलि-णह-मुह-सिप्पंत-सेय-सलिलेण।
हत्थुल्लएण हत्थअलेणं माणिणि मा हणसु पिअं तुलिज्जिहिसि॥ ६६॥
(मुग्धे! प्रवेपनशीलाङ्गुलिनखमुखसिच्यमानस्वेदसलिलेन।
हस्तार्द्रेण हस्ततलेन मानिनि! मा जहि प्रियं तुलयिष्यसि॥)