एक्कं पहरुगव्विण्णंअं हत्थं मुहमारुएण वीअंतो।
सो वि हसंतीए मए गहिओ वीएण कंठम्मि॥ ६७॥
(एकं प्रहारोद्विग्नं हस्तं मुखमारुतेन वीजयन्।
सोऽपि हसन्त्या मया गृहीतः द्वितीयेन कण्ठे॥)
(३४) चरणाहतिः पादाभिघातः, यथा—
चरणाहअस्स पइणो पुलइअ मत्थालअं पुलोअंती।
सवइ सकज्जल-बाह-च्छलेण माणंसिणी माणं॥ ६८॥
(चरणाहतस्य पत्युः पुलकितमस्तालकं प्रलोकयन्ती।
स्रवति सकज्जलवाष्पच्छलेन मनस्विनी मानम्॥)