कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा।
कोपितं विरहखेदितचेतो कान्तमेव कलयत्यनुनिन्ये॥ ७३॥
(३७) स्नेहवामता प्रेमवैकृकतानि, यथा—(गास. ७.७५)
अत्थक्करूसणं खण-पसिज्जणं अलिअ-वअण-णिब्बंधो।
उम्मच्छरसंतावो पुत्तअ! पअई सिणेहस्स॥ ७४॥
(आकस्मिकरोषणं क्षणप्रसादनमलीकवचननिर्बन्धः।
उन्मत्सरसंतापः पुत्रक! पदवी स्नेहस्य॥)
कथमपि सखि! क्रीडायोगाद् व्रजेति मयोदितः कठिनहृदयः शय्यां त्यक्त्वा बलाद् गत एव सः।
इति सरभसग्रस्तप्रेम्णि व्यपेतदये स्पृहां पुनरपि हतव्रीडं चेतः करोति करोमि किम्॥ ७५॥