मनसिजसरसीविकासिपद्मः प्रियतमौलिविलोलनैकदक्षः।
प्रणयज-कलहेषु वामपादो जयति रणन्मणिनूपुरः प्रियायाः॥ ६९॥
(३५) प्रियकदर्थनं दयितयातना, यथा—(रघु. १९.१७)
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम्।
मेखलाभिरसकृच्च बन्धनं वञ्चयन् प्रणयिनीरवाप सः॥ ७०॥
कोपात् कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः।
भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदत्या हसन्॥ ७१॥ (अमरु. ९)
(३६) अनुनयावधीरितकान्तोपच्छन्दनं (प्रत्यनुनयः/)प्रत्यायनम्, यथा—
प्रेयान् सोऽयमपाकृतस्सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद् यावन्न यात्युन्मनाः।
तावत् पाणिसरोजसम्पुटलसन्नीवीनिबद्धं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः॥ ७२॥