प्रियेऽपरा यच्छति वाचमुन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया।
समादधे नांशुकमाहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम्॥ ७९॥
विलम्बमानाकुलकेशशपाशया कयाचिदाविष्कृतबाहुमूलया।
तरुप्रसूनान्यपदिश्य सादरं मनोऽधिनाथस्य मनः समाददे॥ ८०॥
व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीबरस्तनी॥ ८१॥
सलीलमामुक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम्।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया॥ ८२॥
(२८) वनविहारायाससूचकोऽवस्थाविशेषः श्रमानुभवः, यथा— (माघ. ७.३९७१—७३)
प्रथममलघुमौक्तिकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेखम्।