एकस्यास्तपनकरैः करालिताया बिभ्राणाः सपदि सितोष्णवारणत्वम्।
सेवायै वदनसरोजनिर्जितश्रीरागस्य प्रियमिव चन्द्रमाश्चकार॥ ८८॥
स्वं रागाविपरिवितन्वतोत्तरीयं कान्तेन प्रतिपथवारितातपायाः।
सच्छत्रादपरविलासिनीसमूहाच्छायासीदधिकतरा तदापरस्याः॥ ८९॥
संक्षोभक्षमगहनामथापगङ्गं बिभ्राणं ज्वलितमणीनि सैकतानि।
अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम्॥ ९०॥
(३०) नद्यादौ मज्जनविलासो जलक्रीडा यथा—(किराता. ८.४२,४९,४३,४४)
शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्क्तिषु।
नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु॥ ९१॥
प्रियैस्सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः।