(२६) वने विविक्तालोकजनः कामिनां चेष्टाविशेषो वनविहारः (यथा)—
व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः।
यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद् विवव्रे ॥ ७५॥
मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि।
तदपि न किल बालपल्लवाग्रग्रहपरया विविदे विदग्धसख्या॥ ७६॥
इदमिदमिति भूरुहां प्रसूनैर्मुहुरभिलोभयता पुरः प्रकोष्ठ्या।
अनुरहसमनायि वल्लभेन त्वरयति रन्तुमहो जनं मनोभूः॥ ७७॥
विलसितमनुकुर्वती पुरस्ताद् धरणिरुहाधिरुहो वधूर्लतायाः।
रमणमृजुतया पुरस्सखीनामकलितचापलदोषमालिलिङ्ग॥ ७८॥
(२७) कामिनामन्योन्यानुरागहेतुः कुसुमपल्लवादिग्रहणविभ्रमः पुष्पापचयः, यथा— (किराता—८.१५, १८, १९, १६)