प्रीतिविशेषे सर्वेन्द्रियाप्यायनं यथा—
कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम्।
हर्म्येषु माल्यमदिरापरिभोगगन्धानाविश्चकार रजनीपरिवृत्तिवायुः॥ ६१॥
अनुभवविशेषे दृष्टिविषयज्ञानं यथा—(रघु. ६.२७)
जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः।
विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतो नियुङ्क्ते॥ ६२॥
गौणानुभवविशेषे प्रमाणान्तरग्रहणं यथा—(कुसं. ८.११)
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निपेदुषः।
वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया॥ ६३॥
अवगमविशेषेऽपि परामर्शो यथा—(जाह. १६.४२)