वल्लभाभिरुपसृत्य चक्रिरे सामिमुक्तविषयाः समागमाः॥ ५७॥
श्रवणविषये घ्राणदर्शनं यथा—(माघ. ११.२७)
मुदितयुवमनस्कास्तुल्यमेव प्रदोषे मुदमदधुरहर्यः/ धुरुभय्यः कल्पिता भूषिताश्च।
परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते युवतिभिरुपभोगान्नीरुचः पुष्पमालाः॥ ५८॥
आलिङ्गनविशेषे चुम्बनं यथा—
ताम्बूलबहलरक्तः प्रियभुक्तो धूसरः सपर्यन्तः।
बालाधरोऽधिरोहति कुसुमरुचं काञ्चनारस्य॥ ५९॥
प्रीतिविशेषे प्रकाराभिलषणं यथा—
जननयनमधुव्रतोपभोग्या भवतु विलासिनि! ते मुखाम्बुलक्ष्मीः (जश्रीः)।
इदमिह दयितद्विजद्वयाहं दशनरुचाधरपल्लवं पिधेहि॥ ६०॥