पुटपाकप्रतीकाशो रामस्य करुणो रसः॥ ७०॥
पिता वा माता वा प्रभवति स तावत् प्रभुरपि व्यपेक्षा यावत् स्युर्दयिषु यदि वा भोगवसुषु।
सहै संत्यक्ते/क्तोऽयं घनतृषि गतायामुपशमः पुमानेकः कृत्स्नं जगदिदमसमस्तं विरचयेत्॥ ७१॥
धीरललिताश्रयो यथा—(रघु. ८.४३)
विललाप स बाष्पगद्गदः सहजामप्यवधूय धीरताम्।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु॥ ७२॥
उग्रा क्रिया नो सहसैव कार्या दृष्टं फलं तत्परिवेष्टितस्य।
प्रियामटव्यां हि नलः प्रसुप्तां विहाय जीवन् पुनराप साध्वीम्॥ ७३॥