लोकोत्तरेण धैर्येण प्रजापुण्यैश्च जीवति॥ ६७॥
विलपिन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति।
अकरोत् पृथिवीरुहानपि स्त्रुतशाखारसबाष्पदूषितान्॥ ६८॥
तां लोकोऽयं वाञ्छितार्थप्रसिद्ध्यै नित्यं द्रव्यैः पूतहृद्यैर्धिनोति।
तन्मे प्रीतः पूतहव्येन वह्ने! कुर्यात् कान्तासङ्गमं यत्र तत्र॥ ६९॥
३. प्रवृतिकृतश्चतुर्धा धीरोदात्ताश्रयादिभेदात्। तेषु—
धीरोदत्ताश्रयो यथा—(उराच. ३.१)
अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः।