कष्टं प्रसह्य रामेण बाष्पमोक्षो निगृह्यते॥ ६४॥
मध्यमाश्रयो यथा—(रघु. ८.७२)
प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात्।
न चकार शरीरमग्निसात् सह देव्या न तु जीविताशया॥ ६५॥
सततदयितविप्रयोगतापाद् वरमिह कालकलैव वह्निनाभः।
उपशममुपनेतुमात्मपीडां दहनमहं प्रविशामि न प्रियार्थम्॥ ६६॥
२. प्रकृतिकृतोऽपि त्रिधैव सात्त्विको, राजसस्तामस इति। तेषु—
सात्त्विको यथा—(उराच. ७.७)
दह्यमानेन मनसा दैवाद् वत्सां विहाय सः।