कतिपयदिनव्याप्य़ं सम्प्रत्यपास्य वृथैव मां कठिनहृदये! किं त्वं याता क एष तव क्रमः॥ ५८॥
उपायानां भावादविरतविनोदव्यतिकरै— र्विमर्दैर्वीराणां जनितजगदत्यद्भुतरसः।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् कृतः तूष्णीं सह्यो निरवधिरयं तु प्रविलयः॥ ५९॥
प्रिये! हाहा क्वासि प्रकिर मधुरां वाचमधुना पराभूतैरित्थं विलपनविनोदोऽप्यसुलभः।
अनिन्द्यः पौलस्त्यो व्रजतु परिवादो मयि जरां यतो रूढे वैरे बहुगुणमनेन प्रतिकृतः॥ ६०॥
४. करुणजो यथा—(कादकसा. ७.७८)
द्वितीयेऽप्यहमेवास्य जाता जन्मनि मृत्यवे।
शप्तो मदनुरक्तोऽसौ मयेति विललाप सा॥ ६१॥