स दृष्टः स्वप्नेऽद्य प्रणयकुपितो मां प्रति जनं ततः क्षीणा रात्रिर्ननु चरणयोरस्मि पतिता।
कृतं कल्याणानामनभिलषिता एव हि वयं प्रसन्नं तद् वक्त्रं न कृतमिति चेतो दहति माम्॥ ५५॥
मानोल्लेखी यथा—(कुसं. ४. ८)
स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम्।
च्युतकेसरधूसरेक्षणान्यवतंसोत्पलताडनानि वा॥ ५६॥
मूर्च्छान्धकारपटलावृतदिग्विभागा राहुपरागमलिनेव शशाङ्कलेखा।
गर्भालसा चतुरगेहगुणाद् गृणन्ती पाशं निधाय गलके मरणोन्मुखाऽभूत्॥ ५७॥
चिरमनुचितस्थाने स्थित्वा मदीक्षणवाञ्छया किमिव दयिते तत् स्याद् दुःख न यद् विदितं तया।