भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 211 to 220 of 915 verses
१. विप्रलम्भाश्रयप्रभेदेषु प्रथमानुरागजो यथा—(मामा. ५.२४)

न्यस्तालक्तकरक्तमाल्यवसना पाषण्डिचण्डालयोः पापरम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम्।

सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक्कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः॥ ५२॥

प्रथमानुरागोल्लेखी यथा—(मामा. ९.१०)

सरसकुसुमक्षामैरङ्गैरनङ्गमहाज्वर— श्चिरमविरतोन्माथी सोढः प्रतिक्षणदारुणः।

तृणमिव ततः प्राणान् मोक्तुं मनो विधृतं त्वया किमपरमतो निर्व्यूढं यत् करार्पणसाहसम्॥ ५३॥

प्रथमानुरागान्तरङ्गो यथा—(मामा. ५.२०)

नादस्तावद् विकलकुररीकूजितस्‍निग्धतार— श्‍चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति।

अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं स्नेहस्तम्भः स्खलयति गतिं कः प्रकारः किमेतत्॥ ५४॥

२. मानजो यथा—

Showing 211 to 220 of 915 verses