चिरं स भुङ्क्ते चलचामरांशुकां सितातपत्राभरणां नृपश्रियम्॥ ३८॥
अन्यां युवतिमगत्वा सुभग! न विज्ञायते विशेषोऽस्याः।
येन न भुक्तं निम्बं द्राक्षागुणवित् कथं स स्यात्॥ ३९॥
अवनार्थेष्ववगमे यथा—(रघु. ६.३४)
असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः।
दिवापि जालान्तरचन्द्रिकाणां नारीसखः स्पर्शसुखानि भुङ्क्ते१॥ ४०॥
तमात्मसम्पन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव।
सुखानि सोऽभुङ्क्त सुखोपरोधि वार्तं हि राज्ञामवरुद्धवृत्तम्॥ ४१॥