किं मौर्ख्यमश्रेयसि कार्यबुद्धिर्ज्ञानस्य किं लक्षणमप्रमादः।
कोऽत्यन्तबन्धुः पुरुषस्य बन्धुः किं स्वादु भुङ्क्ते सह यत् सुहृद्भिः॥ ३२॥
श्रवणाद्यविशेषे यथा—(शाकु. २.११)
अनघ्रातं पुष्पं किसलयमलूनं कररुहै— रनाविद्धं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ ३३॥
वीणया न निनदेन च वेणोः केकया च कलकण्ठगिरा च।
सीत्कुतैश्च भणितैश्च वधूनां भुञ्जते श्रुतिसुखानि युवानः॥ ३४॥