तत्तस्य रेजेऽरिगदासहिष्णु वक्षः प्रियारत्युपभोगसाक्षि।
शिलातलं श्रीमदिव द्विपेन्द्रदत्ताभिघातोल्लिखितं महान्द्रेः॥ ३५॥
दिग्दन्तिनः शैलतटायतेषु येषां प्रियालिङ्गनलालितेषु।
युद्धापदेशेन भवन्ति वक्षस्ववाप्तवप्रप्रणयोपभोगाः॥ ३६॥
जयति यदुपतेरनेककान्तास्तनपरिभोगरसज्ञकण्ठमालम्।
मुरनरकगदाभिघातबन्धु प्रविसृतकौस्तुभरश्मिशोभि वक्षः॥ ३७॥
गुणेषु रागो व्यसनेष्वनादरो, रतिः सुनीतेषु च यस्य भूपतेः।