रक्षणाद्यविशेषविशेषे करग्रहणं यथा—(रघु. ४.७)
मनुप्रभृतिभिर्मान्यैक्तार्भुक्ता यद्यपि राजभिः।
तथाप्यनन्यपूर्वेव तस्मिन्नासीद् वसुन्धरा॥ ४५॥
अकालसन्ध्यापरिभोगपाण्डुरः क्षपाक्षयक्षामकपोलचन्द्रमाः।
रतोत्सवायासविशेषशोभिनो वधूमुखस्यानुचकार विभ्रमम्॥ ४६॥
क्रियेच्छाविशेषेऽध्यासनं यथा—(कुसं. १.२०)
असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसरख्यम्।
क्रुद्धेऽपि पक्षच्छिदि गोत्रशत्राववेदनाज्ञं कुलिशक्षतानाम्॥ ४७॥
१. प्रसिद्धस्तु पाठः 'तमिस्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान्' इति। उपर्युक्तस्तु पाठः कालिदासग्रन्थावली (१९८६) पादटिप्पणे। 'सखः—खानि' = 'सुखस्पर्शनखानि' —जो.रा.