स्वाम्यर्थविशेषे दास्यं यथा—(रघु. ६.५३)
अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम्।
आसेदुषीं सा जितशत्रुपक्षं बालामबालेन्दुमुखी बभाषे॥ ४८॥
याचनविशेषेऽभिलक्षणं यथा—(रघु. १८.१९)
तं रागबन्धेष्ववितृष्णमेव भोगेषु सौभाग्यविशेषभोग्यम्।
विलासिनीनामरतिक्षमापि जरा वृथामत्सरिणी जहार॥ ४९॥
प्रकटकौटिल्यविशेषे वलनं यथा—(विक्र. ४.३१)
अस्यान्तिकमुपयान्ती शिशुना स्तनपायिना मृगी रुद्धा।
तामयमनन्यदृष्टिर्भुग्नग्रीवो विलोकयति॥ ५०॥१
गौणकौटिल्यविशेषे विश्वसनं यथा—(सक. ५.४९९)