भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः॥ ५४॥
भाववृत्तिविशेषे वैचित्र्यं यथा—(माघ. ११.५)
विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छन् जीवितेशोऽवकाशम्।
रतिपरिचयनश्यन्नैद्रतन्त्र/न्द्रः कथचिद् गमयति शयनीये शर्वरी किं करोतु॥ ५५॥
१. अत्र राघवः 'आकरो मृग्यः' इति।
अभ्यवहारविशेषे फलवैयधिकरण्यं यथा—(माघ. २.५९)
विजयस्त्वयि सेनायाः साक्षीभूते च दिश्यताम्।
फलभाजि समक्षोक्ते/समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि॥ ५६॥
गौणोऽभ्यवहारविशेषे निधुवनं यथा—(रघु. १९.१६)
तस्य सावरणदृष्टसन्धयः काम्यवस्तुषु नवेषु सङ्गिनः।