ततः स्वभगिनीमनु प्रहितचित्तवृत्तिं पतिं विभाव्य भवितव्यतामपि कृतागमो जन्मनः।
उपाश्रमपदं पितुः प्रतिजगाम विद्याधरी चकार न विदामिदं मदनपीडया पार्थिवः॥ ६९॥
अह दिट्ठ-विक्कमम्मि वि सिणेह-सच्चविअ-गरुअ-विणिवाअ-हआ।
चिंतेइ सच्चभामा सुरअरुलंभट्ठिए गअम्मि महुमहे॥ ७०॥
(अथ दृष्टविक्रमेऽपि स्नेहदर्शितगुरुक—विनिपातभया।
चिन्तयति सत्यभामा सुरतरुलाभार्थिके गते मधुमथे॥)
सम्बोध्य सायमिति सानुमतीं प्रभाते श्रीपर्वतं धृतधनुस्तपसे जगाम।
पुत्रीयतोऽस्य वृषभध्वजसेवयास्मिन् मासाः षडेकमनसो दिनवद् व्यतीयुः॥ ७१॥