व्रीडायोगान्नतवदनया सन्निधाने गुरूणां बद्धोत्कम्पं स्तनमुकुलयोर्मन्युमन्तर्नियम्य।
तिष्ठेत्युक्तं किमिव न तया यत् समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागाः ॥ ७५॥
२५. दैवधर्मार्थोपपन्नेषु वृत्तो यथा—
हे धन्याः शृणुत प्रधानधनिनः सेयं मया प्रेयसी मत्पाणिग्रहदूषणादिति दशां याता जगत्पावनी।
दुर्वृत्तेन दुरन्तपातकशतैरस्तोभितः पौरुषैः स्वामित्वैकसमुन्नतेन सुदती विक्रीयते क्रीयताम्॥ ७६॥
वनभुवि सह पत्या प्रस्थितां वीक्ष्य सीतां गृहिणमनुयियासुर्जानकी शोकनिष्ठा।
गुरुगुरुजनलज्जानम्रवक्त्राम्बुजेन भ्रुकुटिपुटनिबन्धाद् वारिता लक्ष्मणेन॥ ७७॥
२७. त्र्यस्त्रो यथा—(शाकु. ६.२४)
संरोपितेऽय्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा।