मधुकुसुमविलेपनादिभागग्रहणनिदर्शितसौहृदस्य वृत्त्या।
अयमपि सखि किं स्वयं वृतस्ते प्रियपरिभोगसुखस्य संविभागः॥ ६४॥
प्रवेशविशेषे धर्षणं यथा—(किराता. ८.५७)
सङ्क्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम्।
बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम्॥ ६५॥
गतिविशेषे निषेवणं यथा—(मेघ. १९)
स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहुर्तं तोयोत्सर्गाद् द्रुततरगतिस्तत्परं वर्त्म तीर्णः।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य॥ ६६॥
अवाप्तिविशेषे फलाधिगमो यथा—(किराता. ७.२७)
सामोदाः कुसुमतरुश्रियो विविक्ता सम्पत्तिः किसलयशालिनी—लतानाम्।