घेप्पंति अप्पण च्चिअ कआवराहाहिं कामिणीहिं पिअअमा।
किं इअ सिक्खावेंतो अवरिज्झइ पिअं करोइ महुमओ॥ ६०॥
(गृह्यन्त आत्मनैव कृतापराधाभिः कामिनीभिः प्रियतमाः।
किमिति शिक्षयन् अपराध्यति? प्रियं करोति मधुमदः॥)
आयातः कृतविप्रियः प्रियसखीदत्तापजापश्चिरात् स्मृत्वा चाटु ससाध्वसं निपतितः प्राप्तान्तरः पादयोः।
न श्लिष्टः स रुषा न चापि विरहक्लिष्टात्मना भर्त्सितो मानिन्या नयनाम्भसेव पतता किं नाम नोक्तः प्रियः॥ ६१॥
(३१) बलात् केशग्रहणं हठकचग्रहः, यथा—
उग्गाहिअं ण भणिअं हिअए चिरचिंतिअं पि राअपरिणामं।
माणंसिणीए पिअअम—सरहस—कअ—ग्गहिअंमि माणग्गहणे॥ ६२॥
(उद्ग्राहितं न भणितं हृदये चिरचिन्तितमपि रागपरिणामम्।