नयनविषयं याते तस्मिन् विचारविधिक्रियां त्यजति हृदयं कोपस्तस्मिन् जने सखि! कीदृशः॥ ५७॥
प्राणोशश्चरणानतो दयितया नोपेक्षितो नेक्षितः।
( ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰)॥ ५८॥
तीए विअलंतधीरं अब्भुट्ठंतीए खणपहोलिबाहं।
दूरोसरंतसरणं दूरअरवलग्गवेअणं णीससिअं॥ ५९॥
(तया विगलद्धैर्यमभ्युत्तिष्ठन्त्या क्षणप्रघूर्णनशीलबाष्पम्।
दूरापसरत्स्मरणं दूरतरवलग्नवेदनं निःश्वसितम्॥)
(३०) रतेरतिप्रकर्षः श्रृङ्गारवृद्धिः, यथा—(हरिवि.)