माने मानमुपेयुषि स्वभवनं द्वारावसक्ताङ्गया किञ्चित्कम्पितमन्थरोरुयुगया व्रीडावनम्रभ्रुवा।
बाष्पाम्भः कणपूरपूरितदृशा गच्छत्पुरोरथ्यया मानिन्या कृतविप्रियः प्रियतमस्तिर्यक्छनैरीक्षितः॥ ४७॥
(२४) व्यलीकोद्घट्टनमुपालम्भः, यथा—(हरिवि.)
सा कुसुमेहिं गरुइआ मह वि कओ सुहअ दंसणेण पसाओ।
कहअण पसाअसद्दो लगउ पिआहिअअस्स इमस्स तुहं॥ ४८॥
{सा कुसुमैः गुरूकृता ममापि कृतः सुभग दर्शनेन प्रसादः।
कथंचन प्रसादशब्दः लगतु प्रियाहृदयस्य चास्य तव॥}
सहिअं माणक्खलणं णाओ पडिपक्ख—विहाअस्सव्वणरसो।
सहिओ तुह (तुह) विओओ मा लज्जसु सुहअ लज्जिअव्वम्मि मए॥ ४९॥
(सोढं मानस्खलनं ज्ञातः प्रतिपक्षविभातस्सव्रणरसः।