भवति च दूरप्रसादं उभयसायत्तविभ्रमं तस्या मुखम्॥)
(२२) तत्प्रत्यायनानि व्याजशपथाः, यथा—(रत्ना. ४.१)
सव्याजैर्वचनैः प्रियेण वचसा चित्तानुवृत्त्याधिकं वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः।
प्रत्यापत्तिमुपागता मयि तया देवी रुदत्या यदा प्रक्षाल्यैव तयैव बाष्पसलिलै कोपऽपनीतः स्वयम्॥ ४४॥
मुहुरविशदाः प्रेमप्रह्वा मुहुर्मुहुरस्थिराः मुहुरसरला विस्त्रम्भार्द्रा मुहुः स्मृतमन्यवः।
वितथशपथोपालम्भाङ्का मुहुः कृतसन्धयः परिववृधिरे निष्पर्यन्ता मिथो मिथुनोक्तयः॥ ४५॥
(२३) प्रेमार्द्रकोपवज्ञालोका वक्रवीक्षितानि, यथा—(अमरु. ४९)
दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूलतम्।
मानिन्याश्र्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणा— च्चक्षुर्जातमहो प्रपञ्चमधुरं जातागसि प्रेयसि॥ ४६॥