भ्रूयुगेन सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः॥ ३९॥
(२०) तद्वदेव कपोलोष्ठस्फुरणानि कपोलोष्ठस्पन्दनानि, यथा—(गास. ६.१८)
बाहोल्लफुरिअ—गंडाहराएँ भणिअं विलक्खहसिरीए।
अज्ज वि किं रूसिज्जइ सवहावत्थं गए पेम्मे॥ ४०॥
(बाष्पार्द्रस्फुरितगण्डाधरया भणितं विलक्षहसनशीलया।
अद्यापि किं रुष्यते शपथावस्थां गते प्रेम्णि॥)
आअंबंतकवोलं खलिअक्खरजंपिरिं फुरोतट्ठिं।
मा छिवसु त्ति सरोसं समोसरंतिं पिअं भरिमो॥ ४१॥
(आताम्रान्तः कपोलां स्खलिताक्षरजल्पनशीलां स्फुरदोष्ठीम्।