मणंसिणीए अहिणवमइरामोअ—पडिवद्धवम्महपसरं।
दइअ-जण-दिण्ण-णअणं विअलिअ-धीरलहुअं चिरं णीससिअं॥ ३७॥
(मनस्विन्या अभिनवमदिरामोदप्रतिबद्धमन्मथप्रसरम्।
दयितजनदत्तनयनं विगलितधैर्यलघुकं चिरं निःश्वसितम्॥)
(१९) मानापगमादनुरागवृद्धौ (स्वेदरोमाञ्चौ/) सात्त्विकाविर्भावः, यथा—
णवविरअ-करावलंबण-सुह-पठिवज्जंत-स्सेअ-पुलउग्गमो।
सच्चा/ भामा ता च्चिअ अकिअउब्बरिअं पि पिअअमं अल्लीणा॥ ३८॥
(अनन्तरं च करावलम्बनसुख-प्रतिपद्यमानः स्वेदपुलकोद्गमः।
सत्या/ भामा तावदेव च अलीकोद्भूतमपि प्रियतममालीना॥)
ग्रन्थिमुद्ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः।