(१७) कचुप्रकम्पनं स्तनाकम्पः, यथा—
कृशासि त्वं कस्मात् प्रकृतिरियमङ्गस्य ननु मे किमङ्गे सूत्रत्वं गुरुजनकृतो पाव/ सकतया।
न मे दोषः कश्चिन्नहि नहि नहीत्येवमुदिता स्तनोत्कम्पं बाला प्रियहृदि निपत्य प्ररुदिता॥ ३४॥
परावृत्त्या शेते कलयति च कम्पस्स्तनतटीं न सन्धत्ते वाचः स्फुरति च वरं वक्तुमधरः।
विरुद्धान्यङ्गानि श्लथकरणमास्तेऽथ च वपुः सकोपस्तन्वङ्गग्या मनसिजविलासो विजयते॥ ३५॥
(१८) मानहानौ निःश्वसितानि माननिःश्वसितानि, यथा—
तीए विअलंतधीरं अब्भुट्ठंतीए खण-पहोलिर-वाहं।
दूरोसरंत-सरणं दूरअर-वलग्ग-वेअणं णीससिअं॥ ३६॥
(तया विगलद्धैर्यमभ्युत्तिष्ठन्त्या क्षणप्रघूर्णनशीलबाष्पम्।
दूरापसरत्स्स्मरणं दूरतरावलग्नवेदनं निःश्वसितम्॥)